________________
૨૭
(a)
क्षेत्रतीर्थाध्यायफलश्रुतिवर्णनम्
६८
मुक्तिमण्डपगमनवर्णनम्
NI
६७६
६८०
6
विष्णवेशङ्करवरदानवर्णनम्
६८१
महाविप्रचाण्डालसम्बादवर्णनम्
६८३
कुक्कुटमण्डप महत्त्ववर्णनम्
६८५
&
विश्वेश्वर लिङ्गमहिमाख्यानवर्णनम्
६८६
विश्वेश्वर लिङ्गप्रशंसावर्णनम्
६८६
१००
समनुक्रमणिकाध्यायवर्णनम्
६६१
यात्रापरिक्रमवर्णनम्
६६३
क्षेत्रतीर्थेनानापरिक्रमणवर्णनम्
६६५
काशीखण्डश्रवणमाहात्म्यवर्णनम्
६६७
* श्रीगणेशायनमः
श्रीमन्महर्षि - कृष्णद्वैपायनव्यासविरचितम्
स्कन्दपुराणम्
-:0:-
समाप्तेयं स्कन्द महापुराणान्तर्गतस्य चतुर्थकाशीखण्डस्य पूर्वार्धोत्तरार्धयो-
विषयानुक्रमणिका
इति विद्वज्जन कृपाभिलाषिणौ लक्ष्मणदुर्गाभिजन ( लक्ष्मणगढ़-सीकरनिवासि ) ब्रह्मदत्त त्रिवेदि नवलदुर्गवास्तव्य ( नवलगढ़ - जयपुर निवासि ) रामनाथ मिश्र दाधीचौ
शुभमस्तु सताम्
--:००:-
तस्येदं चतुर्थकाशीखण्डम्प्रारभ्यते
तस्य
पूर्वाद्ध म्
प्रथमोऽध्यायः
विन्ध्यवर्धनवर्णनम्
तं मन्महे महेशानं महेशानप्रियार्भकम् । गणेशानं करिगणेशानाननमनामयम् ॥ १ ॥
भूमिष्ठाऽपि न याऽत्रभूस्त्रिदिवतोऽप्युच्चैरधःस्थाऽपि या,
या बद्धा भुवि मुक्तिदा स्युरमृतं यस्यां मृता जन्तवः ।
या नित्यं त्रिजगत्पवित्रतटिनीतीरे सुरैः सेव्यते,
सा काशी त्रिपुरारिराजनगरी पायादपायाजगत् ॥ २ ॥